मेघ ऋति भय इत्येतेषु कर्मसु उपपदेषु कऋञः खच् प्रत्ययो भवति। मेघङ्करः। ऋतिङ्करः। भयङ्करः। उपपदविधौ भयादिग्रहणं तदन्तविधिं प्रयोजयति। अभयङ्करः।
"उपपदविधौ" इत्यादि।
ननु चाभयशब्दो नञ्समासे सिध्यत्येव? नैवं शक्यम्, सतिशिष्टत्वाद्धि "तत्पुरुषे तुल्यार्थ"
६।२।२ इति पूर्वपदप्रकृतिस्वराद्युदात्तत्वं स्यात्, "{गतिकारकोपपदात् कृत्" इति सूत्रम्} गतिकारकोपपदानाम्"
६।२।१३८ इत्यादिनान्तोदात्तत्वं चेष्यते। तस्मात् कत्र्तव्यम्। अपवादत्वात् खजयमणं बाधते, हेत्वादिविवक्षायाञ्च परत्वाट्टप्रत्ययमपि॥